भारतीय संस्कृति पर संस्कृत निबंध- Essay on Bhartiya Sanskriti in Sanskrit

In this article, we are providing information about Bhartiya Sanskriti | Indian Culture in Sanskrit- भारतीय संस्कृति पर संस्कृत निबंध, Essay on Bhartiya Sanskriti in Sanskrit Language.

भारतीय संस्कृति पर संस्कृत निबंध- Essay on Bhartiya Sanskriti in Sanskrit

कस्यापि राष्ट्रस्य जनानां यः साधारणतया परिष्कृतो विशुद्ध उत्तम आचारो व्यवहारश्च भवति स एव तस्य राष्ट्रस्य संस्कृतिरुच्यते । भारतीयसंस्कृतेरिदं वैशिष्ट्य यत् प्राचीनकालादेव या संस्कृतिरत्र पल्लविता सँवाधुनापि अक्षुण्णाऽत्र दृश्यते । अस्ति अस्यां संस्कृतौ किञ्चिदेवंविधं यद् उत्कृष्टतमं यच्च न कदापि क्षयि । अस्याः संस्कृतेः उदात्तत्वदर्शनं न केवलं संस्कृसाहित्ये एव भवति, अपितु ग्रामे ग्रामे नगरे नगरे लोकजीवने च भवति । अहिंसासत्यास्तेयादिधर्मास्तादृशा एव । समन्वयो हि भारतीयसंस्कृतेर्मूलतत्त्वम् । अस्मादेव कारणादत्र बढ्यो वैदेशिक्यः संस्कृतयः समायाताः परन्तु ताः सर्वा एव भारतस्य संस्कृती विलीनाः । भारतीयधार्मिककृत्यानां भारतीयपूजाविधीनां च तादृशमस्ति स्वरूपं यत्तत्र प्राचीनावाचीनयोः पौरस्त्यपाश्चात्ययोश्च ससुखं सम्मेलनं सम्भाव्यते । भारतस्य विविधेषु प्रदेशेषु विविधा जनाः विविधवेषधारिणो विविधभाषाभाषिणोऽपि विविधदेवान् पूजयन्तोऽपि हृदये समाना एव । सर्व एव एकमेव परमेश्वरं मन्यन्ते, सर्वेषु तीर्थेषु सर्वेषां समानादरो दृश्यते गङ्गा सर्वेषामेव पूज्यतमा, गां च सर्व एव मातरं मन्यन्ते । सर्वत्र विवाहादिसंस्कारेषु त एवं वैदिकमन्त्री उच्चार्यन्ते । अमर्तमनादिमनन्तं परमम् आत्मानं सर्व एव जना विश्वस्य आधारभूतं मन्यन्ते । मद्यधूतादिव्यसनानि सकले भारते निन्द्यन्ते । कर्मफलानुसारेण पुनर्जन्मनि सर्वत्रैव विश्वासो दृश्यते ।।

इयं समन्वयभावनैव सर्वत्र साहित्येऽपि दृग्गोचरीभवति । वेदेषु गीतायां च वयं ज्ञानकर्मोपासनासमुच्चयं पश्यामः । अस्या भावनाया आधारे एव अस्माकं महषिभिराचार्यैश्च पुरा समाजः चतुषु वर्णेषु कर्मानुसारं विभक्तः यतो हि समाजोत्थानाय सर्वेषां वर्णानां समन्वितः प्रयासोऽपेक्ष्यते । तथैव च पूर्ण जीवनसाफल्याय मनुष्यजीवनं चतुषु ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाख्येषु आश्रमेषु विभक्तम् । एते चत्वारोऽपि आश्रमाः समन्वितरूपेणैव जीवनस्य पूर्णतां सम्पादयन्ति, न त्वेकैकशः । अयं समन्वय एवं भारतीयसंस्कृतेः प्राणाः अनेनैव च सम्मिल्यास्माभिः स्वातन्त्र्यमधिगतम् । सर्वत्रैव भारते धामकोत्सवेषु कृष्या सह सम्बन्धोऽन्यद् वैशिष्ट्यमस्याः संस्कृतेः । कृषिप्रधाना हीयं संस्कृतिः ग्रामप्रधाना च । अत एव वयं सरलजीवनम् अनुसरन्तोऽपि उत्कृष्टानादर्शान् रामकृष्णबुद्धादिमहापुरुषाणां धारयामः ।।

Indian Culture Essay in Sanskrit Language # Bhartiya Sanskriti par Sanskrit mein Nibandh

गणतंत्र दिवस पर निबंध संस्कृत में- Essay on Republic Day in Sanskrit

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

ध्यान दें– प्रिय दर्शकों Essay on Bhartiya Sanskriti in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *