गंगा नदी पर संस्कृत में निबंध- Essay on Ganga in Sanskrit

In this article, we are providing information about Ganga in Sanskrit- गंगा नदी पर संस्कृत में निबंध, Essay on Ganga in Sanskrit Language, Ganga Nadi Par Nibandh

गंगा नदी पर संस्कृत में निबंध- Essay on Ganga in Sanskrit

भारतवर्षस्य सर्वासां नदीनां गङ्गव श्रेष्ठा पुण्यतमा, देवी च सा मन्यते । भागीरथी जाह्नवी चेत्यप्यस्या एव द्वे अपरे नाम्नी । कथम् इयं भागीरथी कथं चेयं जाह्नवीति विषये विभिन्नाः कथाः प्रचलिताः । एके वदन्ति यद्यदा त्रिशूलधरः त्रिनेत्रः तेजस्वी भगवान् शङ्करस्तपश्चचार तदा इयं गङ्गा नदी तस्य शिरसः उगता। अन्ये कथयन्ति यद् यदा गङ्गा स्वर्गात् पतिता तदा सा शिवस्य जटासु विलुप्ता, पश्चात् च शिवेन स्वयमेव तस्याः प्रवाहो मुक्तः । परमेतानि सर्वाण्याख्यानानि कल्पितानि । वस्तुतः हिमाच्छादितं हिमगिरिशिखरमेव शिवशीर्षरूपेण कल्पितम् । इमाः पौराणिक्यः आख्यायिका भगवतशिवस्य शक्तिमात्रमेव दर्शयन्ति । अथवा तैः आख्यानैस्तपसो महिमापि ज्ञायते यत्तपसा मनुजोऽप्राप्यम् अपि प्राप्तुम् शक्तः । तप एवास्मिन् विश्वस्मिन् विश्वे प्राणिनं निश्चिन्तं करोति । तपसो बलेन भगीरथः इमां नदीं स्वर्गात् पृथ्वीं प्रति मनुष्यहिताय आनयत् । अतः अस्या नाम भागीरथी इति प्रसिद्धम् ।।

किम् बहुना, इमानि सर्वाणि आख्यानानि त्यक्त्वास्मा भिभौगोलिकमेव सिद्धमस्याः नद्याः उत्पत्तिस्थानं मन्तव्यम् । हिमसुवर्णोत्तुङ्गशिखरे हिमालये मानसनामकात् सरोवरात् इयं नदी सवेगं निस्सरति । न केवलमियं वर्षासु एव वहति पर निखिलं वर्षपर्यन्तम् स्वनिर्मलेन स्रोतसा भारतधरणीं पुनाति । प्रथमं तु इयं भीषणवनसङकुले दुर्गमे पर्वतप्रदेशे निशायां चाहनि च निर्भया भूत्वा अरेरवस्थितायां चमौ विशालपराक्रमो धनुर्धा रीव स्वपदध्वनिना सर्वमेव वातावरणं प्रतिरवसम्पूर्ण कुर्वन्ती कदाचित् शिलासु पतन्ती कदापि च वृक्षादीन् परिक्रामन्ती निश्चिन्ता भूतले लुठति । न जाने कदा प्रभृति अविरलम् एषा नदी स्ववक्षसि पत्राणि वहन्ती तरङ्गः कुलानि च चुम्बन्ती महापर्वतादवतरति प्राणिनां प्राणरक्षां च करोति । अस्याः तटे एव हरिद्वारकाशीप्रयागसदृशानि पुण्यवन्ति महान्ति नगराणि स्थितानि । सर्वेषु धर्मकृत्येषु अस्या जलमेव पवित्रमिति शुभं मन्यते । मृत्यून्मुखस्य जनस्य मुखेऽपि गङ्गाजल मेव आसिच्यते । अस्या एव तटे पूतात्मनाम् ऋषीणामाश्रमाः आसन् यतः सर्व ज्ञानं प्रसृतम् । अद्यापि गङ्गायाः शीतले जले स्नानं पुण्यजनक मन्यते। विदेषेष्वपि भारतभक्ता जना गङ्गाजलम् अमृतमिव बहुमूल्यं मत्वा शिरसि धारयन्ति तच्च रक्षन्ति ।

# Ganga River Essay in Sanskrit Language # Ganga Nadi par Sanskrit mein Nibandh

गणतंत्र दिवस पर निबंध संस्कृत में- Essay on Republic Day in Sanskrit

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

ध्यान दें– प्रिय दर्शकों Essay on Ganga in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *