गणतंत्र दिवस पर निबंध संस्कृत में- Essay on Republic Day in Sanskrit

In this article, we are providing information about Republic Day in Sanskrit- गणतन्त्रदिवस | गणतंत्र दिवस पर निबंध संस्कृत में, Essay on Republic Day in Sanskrit Language

Also ReadRepublic Day Essay in Hindi

गणतंत्र दिवस पर निबंध संस्कृत में- Essay on Republic Day in Sanskrit

खिस्तीयवर्षानुसारं जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते । अयं हि दिवसो भारतेतिहासेऽतीवमहत्त्वपूर्णः । पञ्चाशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे तस्मिन् . दिवसे ऽनेकशताब्दीपरतन्त्र्यानन्तर स्वतन्त्र भारतराष्ट्र गणतन्त्रमुद्घोषितं तस्य च स्वकीय संविधान स्वकीया च शासनप्रणाली तद्दिनात् प्रवृत्ते । एतदनन्तरमेव भारतेन पूर्णस्वातन्त्र्यं लब्धमिति कथयितुं शक्यते । तस्यैव महत्त्वपूर्ण दिवसस्य स्मृतौ प्रतिवर्षमेतद्दिनं राष्ट्रियपर्वरूपेण सम्मान्यते । अस्मिन् दिने देशस्य प्रमुखेषु नगरेषु राष्ट्रियध्वजारोहणं भवति, राजकीयभवनानि च दीपमालाभिर्दीप्यन्ते, मेलकानि आयोज्यन्ते । अस्मिन् दिवसे विशिष्टः समारोहो राजधान्यां दिल्ल्यां समायोज्यते । प्रातरेव राष्ट्रपतिभवननिकटस्थे विजयचतुष्पथे विशिष्टे मञ्चे राष्ट्रपतिः भारतीयसेनायाः त्रिभ्य एव जलस्थलवायुसेनाङ्गेभ्यो ऽ भिवादनं स्वीकरोति । ततो ऽपि पूर्व राष्ट्रपतिः विशिष्टेभ्यः सैनिकेभ्यो विशेषोत्साहशौर्यकौशलप्रदर्शनार्थं पदकानि वितरति । सेनाङ्गः राष्ट्रपतेरभिवादनावसरे तेषां सेनाङ्गानां स्वोपकरणैः सार्क विजयचतुष्पथादारभ्य राजधान्याः प्रमुखराजमार्गेषु रक्तदुर्ग पर्यन्तं शोभायात्रा भवति । इमां शोभायात्रां लक्ष शो जना मार्गमुभयतो वा वृक्षेषु वा भवनच्छदिषु वा सौत्सुक्यमव. लोकयन्ति । इमामेव द्रष्टुं भारतस्था विविधदेशानां राजदूता अन्ये च विशिष्टा वैदेशिकातिथयोऽपि राजपथं समवयन्ति । सुमधुरसैनिकवाद्यसंगीतसंवलिता इयं शोभायात्रा सर्वेषां चेतांसि आन्दोलयति । अस्मिन्नेवावसरे आसेतुहिमाचलम् आद्वारिकाकामरूपं च निखिलभारतदेशस्य सांस्कृतिकी औद्योगिकी चापि शोभायात्रा भवति । वैविध्यमयं भारतीय लोकजीवनं तत्रैकत्रैव वयं द्रष्टुं पारयामः । प्रतिवर्ष मेतानि शोभायात्रादृश्यानि परिवततान्यत एव मनोहरतराणि नेत्रयोरुत्सवं जनयन्ति। अत एव महति शीते ऽपि आप्रत्यूषादेव जनाः स्वस्थानं गृह्णन्ति । सर्वं तत्र सुन्दरं सर्व शोभाढ्य भारतं नृत्यतीव पुरतः । प्राचीन वा नूतनं वा, निकटस्थं दा दूरस्थं वा सर्व तत्र साक्षाद् भवति भारतगौरवम् । अन्ते चाकाशे विमानैस्त्रिवण भारतीयध्वजो विशिष्टधुमोद्गमैनिर्मीयते यद्धि दृष्ट्वा जनाश्चकितचकिता इव भवन्ति । रात्रौ राजकीयभवानि दीपमालाभिः विद्योतन्ते क्वचिच्च ज्वलनक्रीडनकप्रदर्शनमपि भवति ।

अस्मिन् दिवसे राष्ट्रपतिः गतवर्षस्य विशिष्टविद्वद्भ्यः पुरस्कारान् सम्मानान् वोद्घोपयति । अयं दिवसो ऽस्मान भवन भारतीयान् भेदभावान् विस्मृत्य एकभावेन राष्ट्ररक्षार्थ राष्ट्रसेवार्थं च प्रेरयति । अक्षुण्ण चिरं तिष्ठतु भारतीय गणतन्त्रम् ।

जनगणहृदयानां नित्यमाह्लादकारी
सकलबुधविकासो दु:खिपीडापहर्ता ।
प्रतिदिनमपि नानायोजनाभिः समृद्धो
भवतु भुवि यशस्यो देश एष स्वतन्त्रः ।।

# Republic Day Essay in Sanskrit Language

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

ध्यान दें– प्रिय दर्शकों Essay on Republic Day in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

1 thought on “गणतंत्र दिवस पर निबंध संस्कृत में- Essay on Republic Day in Sanskrit”

Leave a Comment

Your email address will not be published. Required fields are marked *