दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

In this article, we are providing information about Diwali in Sanskrit- Essay on Diwali in Sanskrit Language. दीपावल्युत्सव | दीपावली संस्कृत निबंध

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

दीपावल्युत्सवो भारतस्य सर्व प्रसिद्धः उत्सवः अस्ति। सर्वे देशवासिनः सर्वेषु प्रदेशेषु दीपावल्युत्सवं दीपमाला प्रज्वाल्य सम्भावयन्ति । विदेशेष्वपि भारतवंशजा इभमुत्सवं न विस्मृतवन्तः । अयमुत्सवः कातिकमासस्यामावस्यायां मान्यते । प्रमुखतया ऽस्य सम्बन्धो रामकथया सह वर्तते । चतुर्दशवर्षवनवासानन्तरम् अयोध्या प्रत्यागते रामे नगरवासिनः प्रमुदिताः स्वगृहेषु दीपानि प्रज्वाल्य अपारं मोदं प्रकटितवन्तः । तदाप्रभूत्येव प्रतिवर्षमयमुत्सवो मान्यते। बहुषु, स्थानेषु नववर्षोंत्सवरूपेण दीपावल्या महत्त्वमस्ति । व्यापारिणो वाषिर्क लेखमस्मादेव दिनादारभन्ते । ।

जैनसम्प्रदायसंस्थापकस्य भगवतो महावीरस्य, आर्यसमाजसंस्थापकस्य स्वामिदयानन्दस्य च निशिदिवसो ऽ प्ययन ।। पौराणिक कथा वर्तते यत् प्रथम आयुर्वेदाचार्यो धन्वन्तरिरपि लोकेभ्य: संजीवनौषधं दातुमस्माद्दिनात् दिनद्वयपूर्वं प्रकटितः ।

दिनमेतत् समृद्धिदिबसरूपेण मान्यते । गृहाणि संशोध्यन्ते नानाविधचित्रपताकातोरणादिभिश्च विभूष्यन्ते । पण्यवीथीनां कान्दविकानां च समृद्धिः नयनगोचरतां भजति। रात्र सुमनोहरपरिधानालंकृता जनाः परस्परं सभाजयन्ति, गृहेषु लाजैः मिष्टान्नैः च यज्ञादिकं लक्ष्मीगणेशपूजनं च विदधति । ततो दीपमालाद्योतितानि सर्वेषां गृहाणि अपूर्वा कांचिद् अभिख्यां (शोभां) धारयन्ति स्मयन्त इव। बालयुवकाः विविधैरग्निक्रीडनकैः क्रीडन्ति । नगरे नगरे विविधेषु प्राङ्गणेषु दीपावलीमेलकान्यायोज्यन्ते ।

परम्परयात्रैको दोषोऽपि समाजे समुद्भूतः । केचन जनाः चूतमप्यस्मिन् दिने ‘धर्म’ इति आचरन्ति । परन्तु वयं जीनामो यत् द्यूतं न तु समृद्धेरपि तु विनाशस्य कारणमेव । लक्ष्मीस्तेन न प्रसीदति, रुष्टैव भवति ।

वस्तुतः उत्सवोऽयं सर्वेभ्यो नवजीवनस्य संमृद्धेः परिशुद्धेश्च सन्देशं ददाति । प्रकृतिरपि वर्षतरनन्तरं सर्वत्र प्रसन्ना विमला च दृश्यते । अन्धकारे प्रकाशस्य, अज्ञाने च ज्ञानस्य विजयरूपोऽ यमुत्सवः सर्वानस्मान् धर्माचरणाय ज्ञानोपार्जनाय च प्रेरयति ।

संस्कृत भाषाया महत्त्वम् निबंध- Essay on Importance of Sanskrit in Sanskrit Language

ध्यान दें– प्रिय दर्शकों Essay on Diwali in Sanskrit ( Article ) आपको अच्छा लगा तो जरूर शेयर करे

1 thought on “दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit”

Leave a Comment

Your email address will not be published. Required fields are marked *