वर्षा ऋतू पर संस्कृत निबंध- Essay on Varsha Ritu in Sanskrit Language

In this article, we are providing information about Rainy Season in Sanskrit- Essay on Varsha Ritu in Sanskrit Language, वर्षर्तु | वर्षा ऋतू पर संस्कृत निबंध, Essay on Rainy Season in Sanskrit.

वर्षा ऋतू पर संस्कृत निबंध- Essay on Varsha Ritu in Sanskrit Language

ग्रीष्मानन्तरम् वर्षर्तुः आगच्छति । अयम् जीवनदायी ऋतुः कथ्यते यतः ग्रीष्मकाले सूर्यस्य आतपेन पृथ्वी तपति, जनाः, पशवः च व्याकुलाः भवन्ति । तडागेषु, नदीषु च जलं शुष्यति । सर्वे प्राणिनः च जलस्य अभावे इतस्ततः भ्रमन्ति जलं च अन्विष्यन्ति । वृक्षलतागुल्माः अपि जलाभावे शुष्काः भवन्ति । वृक्षाणां पत्राणि पतन्ति ते च निर्वसनाः इव दृश्यन्ते । ग्रीष्मातपेन तप्तं निखिलं जगत् विकलमिव भवति । तदैव लोकानाम् सन्ताप हतु, तान् उज्जीवयितुम् इव वर्षर्तः आगच्छति ।

वर्षा-ऋतौ आकाशो मेघेः आच्छन्नो भवति । वर्षाकाले वर्षन् देवो नटराज इव भाति । अस्य प्रत्येकमङ्गे अभिनये च विद्युत इव चापल्यम् अस्ति । यदा चायं दिशि दिशि असंख्यैः पादैः धावति कुर्दति च तदा धरा रोदितीव । तस्याः अधुभिः अनेकाः वक्राः धारा: वहन्ति । परस्परं च मिलित्वा ताः नदीतडागादीनां प्रवाहं विशन्ति । पर्वतेभ्यः समतलं प्रति धावन्तीनां गत्या तासां प्रियमेलनाकुलता स्पष्टव । देवे वेगेन वर्षति ता उन्मत्ताः इव शिलासु पतन्ति, पथि धूलि वृक्षपत्राणि च संहरन्ति, वृक्षान् परिक्रान्ति। सां बाहुल्येन नदीकासारतडागादयः सर्वे जलाशयाः सम्पूरिताः । बहवश्च स्वतटमुल्लंघ्य बहिर्भूमौ वहन्ति । यद्यपि मनुष्येण अनेकेषु स्थलेषु नियन्त्रितो जलप्रवाहः तथापि तेन प्रतिवर्ष जनक्षतिर्भवति, ग्रामा ध्वस्यन्ते अन्नस्य च नाशो भवति ।

वर्षा-ऋतौ प्राकृतिक दृश्यम् अतीव रमणीयम् भवति । प्रकृत्याः दिगन्तव्यापिनी श्यामलता सर्वेषां मनस्सु आह्लादं सिञ्चति । अस्मिन् ऋतौ प्रकृतिनटी विविधरूपाणि धारयति, कदाचित् विद्युतः विस्फुरन्ति कदाचित् झञ्झावातः वाति, कदाचित् इन्द्रधनुषः विविधवर्णा शोभा दृश्यते । गाढे तमसि दीव्यन्त्या तडिता कृष्णपट्टे बालचित्रकारेणेव निरर्थका रेखाः खचिताः याः क्षणे एवान्तर्धानं गच्छन्ति ।

वर्षाकाले रवेः सुवर्णपिण्डस्य दर्शनं दुर्लभम् एव । स महातेजोराशिः क्षितिजपाश्र्वाद् वर्धमानैः भीषणश्यामघनैः आच्छादितो भवति । तदा नीले नभसि घोरान्धकारेण जगदिदं दिनेऽपि रजनीतमः धारयति । क्षणपूर्वं यत्रातपो दृश्यते तत्रैव अपरस्मिन् क्षणे सघनघनघटाभिः सर्वं तमोनिगूढमिव भवति सतडिद्गर्जनं च मेघो वर्षति । ।

वृष्टेः पूर्वं मयूराश्च नर्तकीव मुदितचेतसः ताभिः घटाभिः मेघस्य गर्जनेन च मृदङ्गनादेनेव पक्षान् प्रसार्य नृत्यन्ति। सर्वे कोटरान्तरस्थिताः खगाः बहिनिष्क्रय विहरन्ति । शिशुगणाः निश्चिन्ताः उद्यानेषु क्रीडन्ति । मन्दः पवनो वृक्षान् समीरयति । कापि हृदयहारिणी शोभा।

परं यदैव वृष्टिरारभते, खगाः नीडान् प्रत्यागच्छन्ति, गावश्य जलकणेभ्यः आत्मरक्षार्थं स्थानं किमपि धावन्ति । इमे कणाः कृषकाणाम् तु अमृतमेव यभूमौ पतित्वा मृत्तिकायाः रत्नानि उत्पादयति, यैः सर्वाणि भूतानि जीवन्ति ।

वर्षामनु प्रदोषसमये छिन्नभिन्नमेधाः कमप्यज्ञातप्रदेश गच्छन्ति विमलाकाशे चेन्द्रधनुः व्योम्नः पृथिव्याश्चाति दूरस्थिते द्वे स्थाने योजयति । तस्य दिव्यज्योतिः दृष्टये सुख प्रददाति । बृष्टिविरामं ज्ञात्वा सर्वे पक्षिगणाः स्वैर नीडेभ्यः निर्गत्य भूयो नभसि विचरन्ति मधुरं कलरवं च कुर्वन्ति । तडागकूपादिषु मण्डूकानां “टर्रटर्र’ इति ध्वनिः सर्वत्र श्रूयते ।

श्रावणमासे स्थितोऽयं ऋतुः भारतीयकृषकाणां जीवनम् । पुरा तेषां श्रमफलमस्यैव ऋतोः प्रसादेन भवति । यतस्तदा सर्वे कृषीवलाः बद्धाञ्जलयो वृष्टिर्भवेदिति देवं प्रार्थयन्ते स्म । परमधुना तु विज्ञानस्य उन्नत्या नदीनाम् जलं यथेप्सितं सेचनार्थं योज्यते ।

एतादृशः सुखकरोऽपि अयं कालो निर्धनानां दुःखोत्पादकोऽस्ति । ग्रीष्मकाले वृक्षाणां छायायामुपविश्य ते निर्धनाः आत्मानम् रक्षन्ति । शीतकाले ते भानोस्तापेन रक्षितः शीतात् । परन्तु वर्षासु तान् गृहरहितानापः क्लेदयन्ति । न तेषां कापि रक्षा । तेषां पर्णकुटीराणि तु जलवेगं रोद्ध न शक्तानि ।

कदाचित् वृष्टिः अत्यधिकमात्रायाम् भवति । तदा नदीषु सरोवरेषु च जलरतरः वर्धते । भूमिः पङ्किला भवति । अतिवृष्ट्या स्थाने स्थाने जलाप्लावः भवति । मार्गाः अवरुद्धाः भवन्ति। क्षेत्रेषु अन्नमपि नश्यति । वातावरण दूषितं भवति । कीटाः अपि जायन्ते । अतः अनेके रोगाः उत्पद्यन्ते । एवं जीवनदायी वर्षर्तरपि जीवनापहर्ता भवति । अतएव वैदिकी प्रार्थनाऽस्ति “निकामे-निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषध्यः पच्यन्ताम्’ इति ।

वर्षा हि लोकानां जीवनस्य आधारः। जलेन विना प्राणिनो जीवितुं न शक्नुवन्ति । जलं च वृष्ट्या एव लभ्यते । अतएव भारतवर्षे स्थाने स्थाने श्रावणमासोत्सवाः मान्यन्ते । पुरातनकाले श्रावणमासे एव गुरुकुलेषु वार्षिक वेदाध्ययनं प्रारभ्यते स्म ।

# Varsha Ritu Essay in Sanskrit # Essay on Rainy Season in Sanskrit

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

ध्यान दें– प्रिय दर्शकों Essay on Varsha Ritu in Sanskrit Language आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *