वसंत ऋतु पर निबंध संस्कृत में- Essay on Vasant Ritu in Sanskrit

In this article, we are providing information about Spring Season in Sanskrit- Essay on Vasant Ritu in Sanskrit Language, वसन्तश्च | वसंत ऋतु पर निबंध संस्कृत में

वसंत ऋतु पर निबंध संस्कृत में- Essay on Vasant Ritu in Sanskrit

भारते षड् ऋतवः भवन्ति–ग्रीष्मः, वर्षाः, शरद्, हेमन्तः, शिशिरः, वसन्तश्च । वसन्तः शिशिरस्य पश्चात् आगच्छति । वसन्तः ऋतुराजः इति उच्यते । ।

शिशिरे सर्वेषाम् वृक्षाणाम् पत्राणि पतन्ति । वृक्षाः नग्नाः इव दृश्यन्ते । प्रकृतिरपि शोकार्ता इव दृश्यते ।

वसन्ते सर्वेषु वृक्षेषु नवपल्लवाः विकसन्ति। वृक्षाणां शाखा पुष्पाणां भारेण नमन्ति । उपवनेषु मयूराः स्वपक्षान् प्रसार्य नृत्यन्ति । खगाः मधुरगीतानि गायन्ति । कोकिलानां तु अयमृतुः उत्सवः एव । यत्र तत्र आम्रवृक्षेषु कोकिलानां कुहुकुहू इति रवः श्रुतिगोचरो भवति । वनेषु, उपवनेषु च पादपेषु नानाविधानि नानावर्णानि च पुष्पाणि विकसन्ति । क्वचित् पलाशवृक्षेषु किशुककुसुमानि रक्तेन दिशः रञ्जयन्तीव, अन्यत्र च तड़ागेषु पङ्कजानां शोभा पथिकानां मनो हरति, क्वचित् पुनः कणकारपुष्पाणां पीताम्बरमिव प्रसृतं लक्ष्यते, कुन्दपुष्पाणां सुरभिः दूरतः एवं जनान् आकर्षति । सर्वत्र मन्दसमीरः सुगन्धयुतः वहति । उपवनेषु आम्रवृक्षेषु मञ्जर्यः विकसन्ति । भ्रमराः मधुरं गुञ्जन्ति । ते पुष्पेषु उपविश्य तेषां रसं पिबन्ति ।

क्षेत्रेषु धान्यपंक्तयः नृत्यन्ति इव । सर्षपपुष्पाणि भूम्यै पीतपरिच्छदमिव वितरन्ति । नेदानी दिवसाः अति उष्णाः भवन्ति न च रात्र्योऽतिशीताः । जलमपि सुखस्पर्श भवति । जनाः अपि प्रसन्नाः भवन्ति । ते नववस्त्राणि धारयित्वा नृत्यन्ति, गायन्ति च । जनाः उत्सवान् मानयन्ति। सर्वत्र अपूर्वः उत्साहः प्रमोदश्च दृश्यते । प्रकृतिरपि विविधवर्णपरिधानमयी प्रसन्ना इव दृश्यते । |
होलिकोत्सवोऽपि वसन्ते एव भवति। संस्कृतकविभिः वसन्ततः शोभाया मनोहरं वर्णनं कृतम् । कालिदासः ऋतुसंहारे कथयति यत् वसन्ते सर्वं जगत् अतिसुन्दरं भवति-

द्रुमाः सपुष्पाः सलिलं सपद्म।
स्त्रियः सकामाः पवनः सुगन्धिः ।
सुखाः प्रदोषा दिवसाश्च रम्याः
| सर्वं प्रिये चारुतरं वसन्ते ।

यथा जीवने बाल्यावस्था विशेषोल्लासमयी सुखमयी च वर्तते, तथैव वर्षे वसन्तकालः । वसन्तः सर्वेभ्यो नवजीवनसंदेश प्रददाति । मन्ये ईश्वरोऽपि सृष्टेः सुन्दरतमं रूपमस्मिन्नेव ऋतौ प्रकटयति । अतएव गीतायां भगवता कृष्णेन उच्यते यत् ‘अहम् ऋतूनां कुसुमाकरः अस्मि’ ।

# Basant Ritu Essay in Sanskrit # Spring Season Essay in Sanskrit

वर्षा ऋतू पर संस्कृत निबंध- Essay on Varsha Ritu in Sanskrit Language

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

ध्यान दें– प्रिय दर्शकों Essay on Vasant Ritu in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *