विद्यार्थी जीवन पर संस्कृत निबंध- Essay on Student Life in Sanskrit

In this article, we are providing information about Student Life in Sanskrit- Essay on Student Life in Sanskrit Language, छात्रजीवनम् | विद्यार्थी जीवन पर संस्कृत निबंध | Vidyarthi Jeevan Essay in Sanskrit

विद्यार्थी जीवन पर संस्कृत निबंध- Essay on Student Life in Sanskrit

छात्रकालः मनुष्यजीवनस्य सुवर्णमयः कालः । अस्माकं पुरातनग्रन्थेषु अस्य ईदृशं महत्त्वं यत् अनेन मनुष्यस्य द्वितीयं जन्म मन्यते, स च द्विजः उच्यते । वस्तुतः छात्रजीवनं मनुष्यस्य द्वितीयं जन्म एव विद्यते । यदा मनुष्यः जायते, तदा सः पशुतुल्यः एव भवति, केवलं खादितुं पातुं स्वपितुं च जानाति । परन्तु छात्रजीवने एव सः ज्ञानं लभते, परेषां दुःखम् अवबोद्ध, धर्मस्य तत्त्वं ज्ञातुं, परमशक्तिविषये अनुभवितुं, महापुरुषाणां विचारान् पठितं, सम्यग् आचरितुं च अवसरं लभते । प्राचीनकाले छात्रजीवनं ब्रह्मचर्यम् उच्यते स्म । ब्रह्मचारी तपोमयं जीवनं कठोर व्रतं च आचर्य सरलभावेन केवलं ज्ञानोपार्जने संलग्नोऽभवत् । अनेन तपसा ज्ञानेन च भाविजीवने सः कष्टानि सोढुं समर्थोऽभवत् ज्ञानस्य, विद्यायाः तपसः, दानादिधर्मस्य च विशिष्टं महत्त्वमस्ति मनुष्यजीवने, अन्यथा मनुष्यः पशुतुल्यो भवति । उक्तं हि– येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ।

अतएव छात्रैरस्य सुवर्णावसरस्य सदुपयोगः कर्तव्यो न च नाशयितव्यः कालः । यद्यस्मिन् काले छात्राः संयमेन, तपसा, परिश्रमेण नियमपूर्वक कार्यं कुर्वन्ति, सत्यमाचरन्ति, गुरूणामादरं कुर्वन्ति, आलस्यं च त्यजन्ति तदा सकले जीवने ते कदापि विफला न भविष्यन्ति। नायं कालः सुखमुपभोक्तुम् । केवलं सुखमिच्छता परिश्रमेण विना विद्या न लभ्यते सर्वविधो विकासश्च न भवति । अत एवोच्यते-

सुखार्थी चेत्यजेद्विद्या विद्यार्थी चेत्त्यजेत् सुखम् ।

सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥

भाविजीवने सुखार्थमेव छात्रजीवने परिश्रमः क्रियते । छात्रैः नियमितं भोजनं भक्षणीयम्, नियतं च व्यायामेन शरीर पोषणीयम्, आलस्यं त्यक्त्वा ऽ ध्ययनं कर्तव्यम् । तेन शोभनविचारमयानि पुस्तकानि पठितव्यानि, शोभनविचारमयानि नाटकानि चित्राणि च द्रष्टव्यानि, शोभनविचारमयानि गीतानि श्रोतव्यानि गातव्यानि च । अनेन चित्तशुद्धिर्भवति चित्तं च कार्यात् न विचलति ।

# Essay on Vidyarthi Jeevan in Sanskrit

अनुशासन पर संस्कृत निबंध- Essay on Anushasan in Sanskrit

संस्कृत भाषाया महत्त्वम् निबंध- Essay on Importance of Sanskrit in Sanskrit Language

ध्यान दें– प्रिय दर्शकों Essay on Student Life in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *