अनुशासन पर संस्कृत निबंध- Essay on Anushasan in Sanskrit

In this article, we are providing information about Discipline in Sanskrit- अनुशासनम् | अनुशासन पर संस्कृत निबंध, Essay on Anushasan in Sanskrit Language

अनुशासन पर संस्कृत निबंध- Essay on Anushasan in Sanskrit

अनुशासनम्, व्यवस्थाया नियमस्य च नामान्तरम् अस्ति । (सर्वस्मिन् जगति वयं नियमं प्रकृतेरनुशासनं वा पश्यामः । अतः एव वैदिकमन्त्रे उच्यते ‘सत्यं बृहदृतमुग्रं दीक्षा तपः पृथिवीं धारयन्ति’ इति । यानि तत्त्वानि पृथिवीं धारयन्ति तेषु ऋतस्य नियमस्यानुशासनस्य वा महत्त्वपूर्ण स्थानमस्ति । सूर्यः नियमतः उदेति, नियमतश्चास्तमेति, नियमतः एव ऋतवो भवन्ति, नियमत एव ग्रहनक्षत्राणि निश्चित मार्गे परिभ्रमन्ति, नो चेत् सर्वत्र महान् विप्लवः स्यात् । विचार्यतां यदि स्वेच्छया रविरपि कदाचित् प्रकाशेत न वा प्रकाशेत, यदि वा नद्यः स्वेच्छया जलं वहन्तु न वा वहन्तु तदा किं भवेत् । कदाचिद् यदि बहुषु वर्षेषु एकदापि अतिवृष्टिरनावृष्टिव भवति तदा जनानां कष्टानि असह्यानि जायन्ते, यदि पुनः कश्चिदपि क्रमः कदापि न स्यात् तह का दशा जायेत इति सुखम् अनुमातुं शक्यते ।

एवमेव व्यक्तेः समाजस्य च जीवने ऽपि अनुशासनस्य अद्वितीयं महत्त्वं वर्तते । साफल्याय उन्नतये च अनुशासनम् अनिवार्यं भवति । यदि अस्माकं जीवने को 5 पि नियमो न स्यात् तदा वास्तविकी उन्नतिः शान्तिश्च न लभ्यते । कश्चित जनः केवलं धन कामयमानः रात्रौ वा दिवा वा न कदापि स्वपिति तदा किं धनेन सः सुखी भवति ? तथैव यदि, समाजे सर्वे जनाः केवलं धनसंग्रहतत्पराः स्युस्तदा कथं चलेत् जीवनयात्रा । सर्वत्र हि तदा धनार्थं संघर्षः परस्परं घातप्रतिघाताश्च स्युः । आरक्षका अपि यदि नियमं नानुतिष्ठेयुः तदा चौराः स्वतन्त्रा भूत्वा स्वकार्य विदध्युः । प्रत्येक सैनिकः प्रतिपदं यदि साकं चलति, अन्योन्यसम्बद्धः च भवति, तदैव जीयन्ते युद्धानि। अनुशासनविहीना सेना शस्त्रास्त्रसंयुता अपि असम्बद्धजनसम्म इव न कदापि विजयते, आत्मानमेव सा हन्ति । विद्यालयेऽपि यदि कश्चिद् नियमो न स्यात्, यदि कोऽप्यध्यापकः कामपि कक्षा कदापि कमपि विषयमध्यापयेत् स्वैरं तदा कश्चिदपि छात्रः किमप्यवगन्तुं न शक्नुयात् । अत एव समयविभागः क्रियते नियमपूर्वकं च अध्याप्यते येन सर्वेषां लाभः स्यात् । नियमत एव हि रेलयानानि चाल्यन्ते, अन्यथा प्रत्यहं संघट्टनदुर्घटनाः स्युः ।। अस्माकं शरीरेऽपि प्रकृत्या सर्वाण्यंगानि नियमपूर्वक कर्म कार्यन्ते । चिन्त्यतां यदि क्षणमपि हृदयं स्वप्यात् तदा शरीरस्य का ऽ वस्था भवेत् । समाजे ऽपि यस्य यत् कार्यं निर्धारितं तत् तेनैव कार्यं नो इतरेण । क्रीडायां प्रत्येक क्रीडकस्य स्थानं निश्चित भवति, यदि पुनरसौ स्वस्थानं परित्यज्य अन्यत् कुरुते, तदा प्रतिस्पर्धायां विजयो नावाप्यते ।

अत एव समाजस्य, राष्ट्रस्य, स्वस्य चोन्नत्य अनुशासनपूर्वकं वर्तितव्यम् । वयं पश्यामो यत् अनुशासनकारणादेव अंगुलिगण्यैरपि आंग्लैः संसारे साम्राज्यं स्थापितम् । अनुशासनेनैव जापानसदृशम् लघु अपि राष्ट्रं महायुद्धविध्वंसं सोढ्वापि पुनः परमोत्कर्षशिखरमारूढम् ।

# Essay on Essay on Discipline in Sanskrit Language

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

संस्कृत भाषाया महत्त्वम् निबंध- Essay on Importance of Sanskrit in Sanskrit Language

ध्यान दें– प्रिय दर्शकों Essay on Anushasan in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *