महात्मा गांधी संस्कृत निबंध- Essay on Mahatma Gandhi in Sanskrit

In this article, we are providing information about Mahatma Gandhi in Sanskrit- महात्मा गान्धि | महात्मा गांधी संस्कृत निबंध, Essay on Mahatma Gandhi in Sanskrit Language.

जरूर पढ़े- 10 Lines on Mahatma Gandhi in Hindi

महात्मा गांधी संस्कृत निबंध- Essay on Mahatma Gandhi in Sanskrit

महात्मा गान्धिः भारतस्य राष्ट्रपिता कथ्यते । विश्ववन्द्यस्य प्रातःस्मरणीयस्यास्य महात्मनो जन्म काठियावाड़प्रदेश पोरबन्दरनामके स्थले एकोनसप्तत्यधिकाष्टादशशततमे खिस्तीयवर्षे अभवत् । अस्य पूर्ण नाम मोहनदासकर्मचन्दगान्धिः इत्यस्ति ।

आबाल्यादेव अयं सत्यवादी आसीत् । अस्य विवाहः कस्तूरबानाम्न्या धार्मिकमहिलया बभूव । कुशाग्रबुद्धिरयं विधिशास्त्रस्योच्चशिक्षा प्राप्तुं विदेशं गतः, परन्तु तत्र तेन संयमपूर्वक मांसमदिरापरिहारः कृतः । एवम् आत्मशुद्धिपूर्वक प्रावीण्यं लब्ध्वा स्वदेशं प्रतिनिवृत्य पुनः वृत्त्यर्थम् अफ्रीकां गतः । तत्रत्यानां भारतीयानाम् आंग्लशासकैः कृतां दुर्दशामवलोक्य तस्य हृदयं द्रवीभूतं, तदर्थं च तेन न्याययुद्धं प्रारब्धं येन तत्रत्यानां भारतीयानां दशा किञ्चित् परिष्कृता ।

तदनु भारतं प्रतिनिवृत्य. आंग्लशासने भारतीयजनानां कष्टानि दृष्ट्वा तेन सर्वं जीवनं भारतीयस्वातन्त्र्ययुद्धाय आहुतम् । तेन हरिजनोद्धारेण अन्यैश्चोपायैः भारतीयजनेषु ऐक्यभावः सञ्चारितः यतः संघट्टनेन ऐक्येन च विना आंग्लशासनात् मुक्तिः असंभवा आसीत् । तेन सम्यक् ज्ञातं यत् महत्या आंग्लशासनशक्त्या अहिंसयैव योद्धुं शक्यते न हिसया। अतएव तेन अहिंसकैः असहयोगान्दोलनः आंग्लीया भारतशासनं त्यक्तुं विवशीकृताः । सः स्वयं सत्याचरणम् अकरोत् ।तेन भारतीयाः स्वदेशिवस्तूनां प्रयोगाय विदेशिवस्तूनां परित्यागाय च प्रतिबोधिताः । भारतीयतां भारतीयगौरवं च जनमानसे प्रतिबोधयितुं तेन संस्कृतज्ञानस्य महत्त्वं ख्यापित हिन्दीभाषायाः प्रयोगश्च प्रसारितः । सर्वधर्मसमभावः तस्यान्दोलनस्य मूलमासीत् । स्वातन्त्र्ययुद्धे सः अनेकवारं कारागारे निगृहीतः । सर्वं भारतीयं तस्य प्रियम् आसीत्, दरिद्राणां दुःखिनां विपन्नानां च कष्टेन तस्य हृदयं द्रवीभूतम्, तेषामुत्थानाय तेन महान् प्रयत्नो विहितः । ग्रामोन्नतिरेव भारतस्य उन्नतिरिति तेन सत्यं प्रतिपादितम् ।।

अष्टचत्वारिंशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे जनवरीमासस्य त्रिशे दिवसे कस्यापि अविमृश्यकारिणः नाथूरामगोड्सेनाम्नो जनस्य गोलीप्रहारेण दिवंगतोऽयं महात्मा।

तस्य त्यागेन नीत्या च भारत स्वतन्त्रमभूत् । अद्यापि वयं तस्य नीतिमंनुसरन्त एव यदि भारतं निर्मातुं प्रयतामहे तदैव साफल्यं प्राप्स्यामः ।

Mahatma Gandhi Essay in Sanskrit Language # Mahatma Gandhi par Sanskrit mein Nibandh

गणतंत्र दिवस पर निबंध संस्कृत में- Essay on Republic Day in Sanskrit

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

ध्यान दें– प्रिय दर्शकों Essay on Mahatma Gandhi in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *