हिमालय संस्कृत निबंध- Essay on Himalaya in Sanskrit

In this article, we are providing information on Himalaya in Sanskrit- हिमालय संस्कृत निबंध, Essay on Himalaya in Sanskrit Language for students and kids.  Checkout article on Sanskrit Essay list

हिमालय संस्कृत निबंध- Essay on Himalaya in Sanskrit

 

भारतस्य उत्तरस्यां दिशि नगाधिराजः हिमालयः तिष्ठति । तस्य विस्तारः अतिप्रचण्डः आकारः च विशालः । हिमेन आच्छादितानि तस्य सानूनि अत्युच्चानि वर्तन्ते । किन्तु हिमेन आच्छादितः पर्वतः इति एव तस्य अभिज्ञानं नास्ति । तथैव न केवलं तस्य व्याप्तिः कौतुकविषयः । हिमालयः भारतीयानां कृते रक्षकः दाता च अस्ति । हिमालयात् एव गङ्गादयः विविधाः नद्यः प्रभवन्ति यासां च तीरेषु आबहुकालात् मनुजेन वसतिः कृता । उत्तरध्रुवतः वहन्तं शीतवायुं हिमालयः एव स्थगयति। उत्तरदिशः आगच्छतः शत्रून् अपि एषः एव रोधयति अस्मान् च महासङ्कटात् तारयति। हिमालयस्य निकटे नैकानि औषधिमूलानि सन्ति इति अपि कथ्यते तथा च तत्र विविधानि अमूल्यानि रत्नानि लभ्यन्ते । अतः हिमालयः खलु हेमालयः । हिमालयस्य सौन्दर्यम् अवर्णनीयम्। तत्र गतः मनुजः तस्य प्रेमी एव भवति । तत्र सत्सु वृक्षेषु नैके अन्यत्र सहजतया न दृश्यन्ते । तत्रस्थं शीतम् आह्लाददायकं वातावरणं अन्यत्र दुर्लभम् । अतः हिमालयस्य परिसरः मनुजान् रमयति। तेषां कष्टानि दूरम् अपसारयति । भारतस्य शिरोभागे वसन् एषः पर्वतराजः खलु अस्माकं शिरोमणिः अस्ति। तस्य रक्षणम् अस्माकम् आद्यं कर्तव्यम् ।

 

# Himalaya in Sanskrit # A Short Essay on Himalaya in Sanskrit

Essay on Environment in Sanskrit

Essay on Republic Day in Sanskrit

Essay on Mahatma Gandhi in Sanskrit

ध्यान दें– प्रिय दर्शकों Essay on Himalaya in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *