पर्यावरण संस्कृत निबंध- Essay on Environment in Sanskrit

In this article, we are providing information on Environment in Sanskrit ( paryavaran nibandh in Sanskrit ) – पर्यावरण संस्कृत निबंध, Essay on Environment in Sanskrit Language for students and kids.  Checkout article on Sanskrit Essay list

पर्यावरण संस्कृत निबंध- Essay on Environment in Sanskrit

 

Paryavaran Par Nibandh Sanskrit Mein

पर्यावरणम् अथवा नैसर्गिकपर्यावरणम् इति शब्दः बहूनि वस्तूनि सूचयति । पृथिव्यां निसर्गतः सतां सजीवानां तथा च निर्जीवानां निर्देशः पर्यावरणशब्देन क्रियते । सर्वे पशवः सर्वे खगाः वृक्षाः लताः पर्णपुष्पफलानि इति एतेषां पर्यावरणे अन्तर्भावः अस्ति । तथैव मृत्तिका, प्रस्तराः पृथ्वीं परितः वातावरणम् इति एते अपि सर्वे घटकाः पर्यावरणशब्दे सम्मीलिताः । यद्यपि मनुजः अपि पर्यावरणस्य घटकः तथापि सः एव एतत् विस्मृतवान् अस्ति । “पर्यावरणस्य हानिः मा भवतु ” इति तु सर्वे विचारवन्तः शास्त्रज्ञाः वा वारंवारं ब्रुवन्ति । किन्तु पर्यावरणस्य हानिः नाम किम् इति एव अद्यापि सामान्यमनुजेन न अवगतम्। प्रदूषणम् अस्वच्छता च इति द्वौ प्रमुखौ शत्रू पर्यावरणस्य । मनुजः एव एतौ रिपू निर्मितवान् । उपरि निर्दिष्टाः अन्ये सर्वे घटकाः नैसर्गिकनियमैः एव जीवनम् आचरन्ति। एकः एव मनुजः स्वबुद्ध्या गर्विष्ठः अनैसर्गिकतां निकटीकरोति । यदि पर्यावरणस्य ह्रासः भवेत् तर्हि तस्य सर्वे घटकाः पीडिताः भवेयुः । मनुजः अपि तेषु घटकेषु एकः अतः निश्चितं नङ्क्ष्यति ।

 

# Environment in Sanskrit # A Short Essay on Environment in Sanskrit

Essay on Himalaya in Sanskrit

Essay on Republic Day in Sanskrit

Essay on Mahatma Gandhi in Sanskrit

ध्यान दें– प्रिय दर्शकों Essay on Environment in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *