परिश्रम का महत्व पर संस्कृत निबंध- Parishram Ka Mahatva Essay in Sanskrit

In this article, we are providing information about Hard Work | Parishram in Sanskrit- परिश्रम का महत्व पर संस्कृत निबंध, Parishram Ka Mahatva Essay in Sanskrit Language. Essay on Parishram in Sanskrit

परिश्रम का महत्व पर संस्कृत निबंध- Parishram Ka Mahatva Essay in Sanskrit

सत्यमाह कविः-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।

इति – जन्मना कश्चित् कीदृशोऽपि महान् स्यात् परन्तु, यदि सः सर्वाणि कर्याणि परित्यज्य केवलमालस्यपरिगृहीत एव यापयति दिनानि, तदा स उन्नति नाप्नोति । तेन यत् पूर्वजेभ्यः प्राप्त तदपि शनैः-शनैः नश्यति । वनराजो मृगराजोऽपि यदि उद्यम विहाय वने तिष्ठेत्, तह अयमस्माकं राजेति विचार्य स्वयमेव कश्चित् पशुः तस्य मुखग्रासो भवितुं नार्हति । अत एवोच्यते ‘न परिश्रमसमो बन्धुर्न चालस्यसमो रिपुः’ इति । एतदाभाणकं शतशः सत्यमस्ति। यदि अस्माकं सर्वे बन्धवो वियुज्येरन्, पराङ्मुखा वा भवेयुः न कश्चित् साहाय्यं कुर्यात्, तदापि यदि परिश्रमं न वयं त्यजामस्र्ताह न केवलं लुप्तं धनं यशो वा प्राप्तुं समर्था अपितु नवमधिकं च धनं यशश्चार्जयितुं समर्थाः । मृत्पिण्डबुद्धिना बोपदेवेनापि परिश्रमद्वारैव महती विद्योपाजता, विद्वान् वैयाकरणोऽसौ जातः सम्मानितश्च लोके। ये पुनः विभववन्तो जनास्ते हि बन्धुबान्धवयुता अपि यदि आलस्यपरिगृहीताः स्युः तदा सर्वस्तेषां विभवः पश्यतामेव नश्यति । कि वाऽभूत् आलस्यमूर्तेरग्निवर्णस्य ? तस्य इक्ष्वाकुवंशागतं राज्य परैरपहृतमालस्यकारणादेव । आलस्यकारणादेव च परवति, शासकैर्भारते मुगलसाम्राज्यमवपातितम् । परिश्रमेण पन अत्यल्पैरङ्ग लिगण्यैरपि आङ्गलैः निखिलविश्वे साम्राज्य स्थापितम्। सर्वस्य इतिहासस्य कथैव परिश्रमकथा इति शक्यते वक्तुम् । न चेदभविष्यत् परिश्रमो गान्धितिलकसुभाषसदशानां नेतृणां कथनभविष्यत् भारतं स्वतन्त्रम् ! विद्यार्थिभिरपि सोद्यमैरेव न केवलं परीक्षायामपितु सकलजीवने एव साफल्यमधिगम्यते । प्रकृत्यामपि परिश्रमस्योदाहरणानि दृश्यन्ते । लघुपक्षिणोऽपि परिश्रमेण नीडानि निर्माय वर्षाकाले शीतकाले च सुखं वसन्ति । अतिलघ्वी पिपीलिका सर्वदा परिश्रमनिरता दृश्यते न सा कदापि विश्राम्यति । सा च सर्वेष कालेषु बिलेष सुख निभृता सती संगृहीतमन्न भक्ते न च क्षयं याति । अत एव साधूक्तं केनचित् कविता-‘आलस्यं हि ‘मनुष्याणां शरीरस्थो महान् रिपुः’ इति । वेदेषु प्रोच्यते–कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः इति । यः सपरिश्रम कार्यं करोति स एव जयति । तथैवोच्यते-इन्द्र इच्चरतः सखा इति । यो जनः चरति कार्यं वा करोति तमेव परमेश्वरः कामयते । परिश्रमेण श्रान्तेन जनेनैव लक्ष्मीः प्राप्यते इति ‘नानाश्रान्ताय श्रीरस्ति’ इत्यस्मिन् आभाणके उक्तं भवति । तथैव चाह ऋषिः-न ऋते श्रान्तस्य सख्याय देवाः इति । परमेश्वरोऽपि तस्य साहाय्यं करोति यः स्वयं परिश्रमशीलः स्यात् । सर्वेषु क्षेत्रषु परिश्रमः आवश्यकः । परिश्रमशीलो जनः किमपि काय गहतं न मन्यते । तस्य तु परिश्रमे एव निष्ठा च प्रतिष्ठा च।

# Haed Work in Sanskrit Language # Parishram par Sanskrit mein Nibandh

गणतंत्र दिवस पर निबंध संस्कृत में- Essay on Republic Day in Sanskrit

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

ध्यान दें– प्रिय दर्शकों Parishram Ka Mahatva Essay in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *