वेद पर संस्कृत निबंध- Essay on Vedas in Sanskrit

In this article, we are providing information about Vedas in Sanskrit- वेद पर संस्कृत निबंध- Short Essay on Vedas in Sanskrit Language. Vedas Par Nibandh

वेद पर संस्कृत निबंध- Essay on Vedas in Sanskrit

वेदः खलु मानवमात्रस्य प्राचीनतमः शब्दमयो ज्ञानराशिः। वेदशब्दस्य अर्थः ज्ञानमेव । वेदेषु मन्त्राः सन्ति । तेषु मन्त्रेष आध्यात्मिक तथा च जीवनस्य व्यावहारिक ज्ञानं सम्मिलितम। यदि वयं कस्यचित् जनस्य समाजस्य वा कर्तव्यविषये धर्मविषये वा किंचित् ज्ञातुमिच्छामस्तदा तत् सर्वं वेदेषु उपलभ्यते । अतएव भगवता मनुना मनुस्मृतौ साधूक्तं “वेदोऽखिलो धर्ममूलम् ।

वेदेषु प्राचीनतमं काव्यं दृश्यते । “अस्य विश्वस्य सृष्टिः कदा केन साधनेन केन वा पुरुषेण कृता’ इत्यस्मिन् विषये वेदेषु । विचारितम् । काः शक्तयः संसारे कथं कार्य सम्पादयन्ति इति वेदयति वेदः । वेदेनोच्यते यत् सर्वमेतद् जगत् यज्ञमयं वर्तते । मनुष्यः मनसा कथं विचारयति, कथं परमेश्वरः सर्वेषां जीवानां सञ्चालनं करोति, कथं च सर्वज्ञः सः सर्वं जानाति इत्येतत् सर्वं वेदाः बोधयन्ति । राज्ञां व्यवहारविषये, अध्यापकानां महत्त्वविषये, व्यापारिणामाचरणविषये, सर्वेषां स्वास्थ्यविषये च महत् ज्ञानं वेदेषु लभ्यते ।।

वेदानुसारेण सर्वे जनाः परस्परं स्नेहभावेन मित्ररूपेण वर्तन्तांम् –“सर्वा आशा मम मित्रं भवन्तु ।” वेदाः मनुष्य श्रेष्ठम् आर्य सज्जनं वा कर्तुम् इच्छन्ति । अतएवोच्यते”कृण्वन्तो विश्वमार्यम्” । मनुष्यः सत्यमेव मननशीलः परहितचिन्तकः स्यात्, अतः तत्र कथ्यते–“मनुर्भव’ इति । समाजे सर्वेषां गतिः वर्गभेदं विना समाना भवेत् येन राष्ट्रमुन्नतिं लभेत –“सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । वेदानामेव ज्ञानम् उपनिषत्सु, गीतायां, दर्शनग्रन्थेषु च विद्यते।

अस्माकं विवाहनामकरणचूडाकर्मादिषु संस्कारेषु समस्तभारतवर्षे वेदमन्त्राणामेवोच्चारणं क्रियते । प्रत्येक हिन्दूधर्मावलम्बिना-बालेनापि वैदिको गायत्रीमन्त्रोऽवश्यमुच्चार्यते ।

वेदाश्चत्वारः सन्ति-ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्च । भारतीयपरम्परा वेदान् सृष्टेरादौ परमेश्वरेण ऋषीणां हृदयेषु प्रकटितान् मन्यते ।

# Ved Vyas par Nibandh # Ved Vyas Essay in Sanskrit Language

रामायण संस्कृत निबंध- Essay on Ramayana in Sanskrit

श्रीमद्‍भगवद्‍गीता पर संस्कृत निबंध- Essay on Bhagavad Gita in Sanskrit

संस्कृत भाषाया महत्त्वम् निबंध- Essay on Importance of Sanskrit in Sanskrit Language

ध्यान दें– प्रिय दर्शकों Essay on Vedas in Sanskrit ( Article ) आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *