विद्यालय वार्षिकोत्सव पर संस्कृत निबंध- Essay on School Annual Function in Sanskrit

In this article, we are providing information about School Annual Function in Sanskrit- Essay on School Annual Function in Sanskrit Language, विद्यालयस्य वार्षिकोत्स | विद्यालय वार्षिकोत्सव पर संस्कृत निबंध

विद्यालय वार्षिकोत्सव पर संस्कृत निबंध- Essay on School Annual Function in Sanskrit

प्रतिवर्ष विद्यालयस्य वार्षिकोत्सवो महतोत्साहन आयोज्यते । तत्राध्यक्षतार्थं कश्चिद्विशिष्टो राजनेता वा उच्चाधिकारी वा शिक्षाविद् वा निमन्त्र्यते । वार्षिकोत्सवाद् बहुदिवसपूर्वमेव प्रधानाचार्यसहिताः सर्वे ऽध्यापकाः सर्वाः अध्यापिकाश्च बहुविधा: सज्जा: कुर्वन्ति, छात्राः अपि सर्वेषु कार्येषु सहयोगं कुर्वन्ति। सर्वत्र स्वच्छता क्रियते, विद्यालयस्य पताकाभिः सुन्दरैः वाक्यपटैश्च शृङ्गारो भवति।

वार्षिकोत्सवावसरे छात्रा: स्वच्छवेषेण अगत्य सभाभवने शान्ता उपविशन्ति । पूर्व छात्रा मङ्गलाचरणमुच्चारयन्ति राष्ट्रगीतं च गायन्ति। मुख्यातिथये माला: अर्घ्यन्ते, तदा करतलध्वनिर्भवति ।

प्रधानाचार्य:/प्रधानाचार्या विद्यालयस्य उपलब्धी:, छात्राणां विशिष्टा योग्यता: सफलताश्च वर्णयति। छात्रा: तत् श्रुत्वा हृष्टाः करतलध्वनि कुर्वन्ति।

तदैकैकश: छात्रा: पुरस्कारप्राप्त्यर्थं नाम्ना आहूयन्ते। कमशः मञ्चम् आगत्य छात्रा: मुख्यातिथिहस्ताभ्यां पुरस्कारान् प्राप्य प्रसीदन्ति, सर्वे/ सर्वाः प्रोत्साहनाय करतलध्वनि कुर्वन्ति वारं वारम्। प्रथमं शैक्षिक विशिष्टतापुरस्कारावि तीर्यन्ते , तत्पश्चात् साहित्यिकसांस्कृतिकपुरस्कारा अन्ते च कीडापुरस्कारा राष्ट्रियछात्रसेनापुरस्काराश्च वितीर्यन्ते। छात्रेषु अपूर्व उत्साहो दृश्यते । छात्राणां समूहगानं नाट्याभिनयो वा भवति । सर्वे तं कार्यक्रमं दृष्ट्वा भृशं प्रसीदन्ति।

अन्ते च मुख्यातिथिमहोदयः अध्यक्षीयभाषणार्थं प्रधानाचार्येण/ प्रधानाचार्यया प्राथ्यते । कार्यक्रमेण प्रसन्नो भूत्वा मुख्यातिथिः पुरस्कारविजेतृन् छात्रान्/पुरस्कारविजेत्री: छात्रा: वर्धापयति अन्यान्/ अन्याः च अधिक परिश्रमार्थं प्रोत्साहयति येन ते/ ताः अपि भविष्ये पुरस्कारान् प्राप्नुयुः ।। स: विद्यालयस्य अधिकाम् उन्नतिं छात्राणां च जीवने सर्वविधं साफल्यम् कामयते । से राष्ट्रियैकतायै परिश्रमाय सच्चरित्राय च सर्वान्/ सर्वाः प्रतिबोधयति । यदा तस्य भाषणम् विरमति, तदा सर्वे/ सर्वाः महाकरतलध्वनिं कुर्वन्ति।

तदनन्तरं छात्रा राष्ट्रगानं गायन्ति, सर्वे स्वस्थाने सावधाना: तिष्ठन्ति। एवं वार्षिकोत्सव सम्पद्यते ।

# School Annual Function Essay in Sanskrit

विद्यार्थी जीवन पर संस्कृत निबंध- Essay on Student Life in Sanskrit

अनुशासन पर संस्कृत निबंध- Essay on Anushasan in Sanskrit

संस्कृत भाषाया महत्त्वम् निबंध- Essay on Importance of Sanskrit in Sanskrit Language

ध्यान दें– प्रिय दर्शकों Essay on School Annual Function in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे

Leave a Comment

Your email address will not be published. Required fields are marked *